song lyrics / Ravindra Sathe / Ganpati Atharvshirsh lyrics  | FRen Français

Ganpati Atharvshirsh lyrics

Performer Ravindra Sathe

Ganpati Atharvshirsh song lyrics by Ravindra Sathe official

Ganpati Atharvshirsh is a song in Hindi


वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा
ॐ नमस्ते गणपतये
त्वमेव प्रत्यक्षं तत्त्वमसि
त्वमेव केवलं कर्तासि
त्वमेव केवलं धर्तासि
त्वमेव केवलं हर्तासि
त्वमेव सर्वं खल्विदं ब्रह्मासि
त्वं साक्षादात्माऽसि नित्यम् ॥ १ ॥
ऋतं वच्मि । सत्यं वच्मि ॥ २ ॥
अव त्वं माम् । अव वक्तारम्
अव श्रोतारम् । अव दातारम्
अव धातारम् । अवानूचानमव शिष्यम्
अव पश्चात्तात् । अव पुरस्तात्
अवोत्तरात्तात् । अव दक्षिणात्तात्
अव चोध्वारात्तात् । अवाधरात्तात्
सर्वतो मां पाहि पाहि समन्तात् ॥ ३ ॥
त्वं वाङ्मयस्त्वं चिन्मयः
त्वमानन्दमयस्त्वं ब्रह्ममयः
त्वं सच्चिदानन्दाद्वितीयोसि
त्वं प्रत्यक्षं ब्रह्मासि
त्वं ज्ञानमयो विज्ञानमयोसि ॥ ४ ॥
सर्वं जगदिदं त्वत्तो जायते
सर्वं जगदिदं त्वत्तस्तिष्ठति
सर्वं जगदिदं त्वयि लयमेष्यति
सर्वं जगदिदं त्वयि प्रत्येति
त्वं भूमिरापोऽनलोऽनिलो नभः
त्वं चत्वारि वाक्पदानि ॥ ५ ॥
त्वं गुणत्रयातीतः
त्वं अवस्थात्रयातीतः
त्वं देहत्रयातीतः
त्वं कालत्रयातीतः
त्वं मूलाधारस्थितोऽसि नित्यम्
त्वं शक्तित्रयात्मकः
त्वां योगिनो ध्यायन्ति नित्यम्
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवः स्वरोम् ॥ ६ ॥
गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम्
अनुस्वारः परतरः
अर्धेन्दुलसितम् । तारेण ऋद्धम्
एतत्तव मनुस्वरूपम्
गकारः पूर्वरूपम्
अकारो मध्यरूपम्
अनुस्वारश्चान्त्यरूपम्
बिन्दुरुत्तररूपम्
नादः संधानम्
सांहितासंधिः ॥ ७ ॥
सैषा गणेशविद्या । गणक ऋषिः
निचृद्गायत्री छन्दः
गणपतिर्देवता
ॐ गं गणपतये नमः ॥ ८ ॥
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि
तन्नो दन्तिः प्रचोदयात् ॥ ९ ॥
एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम्
रदं च वरदं हस्तैर् बिभ्राणं मूषकध्वजम्
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम्
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥ १० ॥
सर्वोपाशरहितं देवं शुद्धसत्त्वं गणेश्वरम्
स योऽवेत् स सर्वं सम्प्राप्नोति
स सर्वविद्भवति ।
श्री वरद मुर्तय नमः
Lyrics copyright : legal lyrics licensed by Lyricfind.
No unauthorized reproduction of lyric.

Comments for Ganpati Atharvshirsh lyrics

Name/Nickname
Comment
Copyright © 2004-2024 NET VADOR - All rights reserved. www.paroles-musique.com/eng/
Member login

Log in or create an account...

Forgot your password ?
OR
REGISTER
Select in the following order :
1| symbol to the right of the thumbs up
2| symbol at the bottom of the smiley
3| symbol to the left of the eye
grid grid grid
grid grid grid
grid grid grid